वांछित मन्त्र चुनें

ह॒विष्पान्त॑म॒जरं॑ स्व॒र्विदि॑ दिवि॒स्पृश्याहु॑तं॒ जुष्ट॑म॒ग्नौ । तस्य॒ भर्म॑णे॒ भुव॑नाय दे॒वा धर्म॑णे॒ कं स्व॒धया॑ पप्रथन्त ॥

अंग्रेज़ी लिप्यंतरण

haviṣ pāntam ajaraṁ svarvidi divispṛśy āhutaṁ juṣṭam agnau | tasya bharmaṇe bhuvanāya devā dharmaṇe kaṁ svadhayā paprathanta ||

पद पाठ

ह॒विः । पान्त॑म् । अ॒जर॑म् । स्वः॒ऽविदि॑ । दि॒वि॒ऽस्पृशि॑ । आऽहु॑तम् । जुष्ट॑म् । अ॒ग्नौ । तस्य॑ । भर्म॑णे । भुव॑नाय । दे॒वाः । धर्म॑णे । कम् । स्व॒धया॑ । प॒प्र॒थ॒न्त॒ ॥ १०.८८.१

ऋग्वेद » मण्डल:10» सूक्त:88» मन्त्र:1 | अष्टक:8» अध्याय:4» वर्ग:10» मन्त्र:1 | मण्डल:10» अनुवाक:7» मन्त्र:1


बार पढ़ा गया

ब्रह्ममुनि

इस सूक्त में सूर्य विद्युत् अग्नि के व्यवहार तथा परमात्मा के ज्ञानप्रसाद लाभ और उसकी उपासना के प्रकार वर्णित हैं।

पदार्थान्वयभाषाः - (स्वर्विदि) सूर्य को प्राप्त करनेवाले (दिविस्पृशि) आकाश को छूनेवाले (अग्नौ) यज्ञाग्नि में (हविः-पान्तम्) जो खाने-पीने योग्य हव्य (अजरम्) प्रसरणशील (आहुतम्) प्रेरित (जुष्टम्) प्रीत-पसन्द की हुई (तस्य भर्मणे) उसके भरण करने में (भुवनाय) भावन करने के लिये (धर्मणे) धारण करने के लिये (स्वधया) अन्न से (कं पप्रथन्त) सुखकर अग्नि में अग्नि को धरते हैं ॥१॥
भावार्थभाषाः - विशेष हवि जो खाने-पीने योग्य आकाश को छूनेवाले, सूर्य को प्राप्त होनेवाले, पहुँचने योग्य को यज्ञाग्नि में होमता है, वह सुख को प्राप्त करता है ॥१॥
बार पढ़ा गया

ब्रह्ममुनि

अस्मिन् सूक्ते सूर्यविद्युदादीनां व्यवहाराः परमात्मनो ज्ञानप्रसादलाभास्तस्योपासनाप्रकाराश्च वर्ण्यन्ते।

पदार्थान्वयभाषाः - (स्वर्विदि) या सूर्यं विन्दते प्राप्नोति तथाविधे “स्वरादित्यो भवति” [निरु० २।१४] (दिविस्पृशि) दिवमाकाशं स्पृशति यस्तस्मिन् (अग्नौ) यज्ञाग्नौ (हविः-पान्तम्) हव्यं यत् पानीयं भक्षणीयम् “पा पाने” [स्वादि०] ततः “जॄविशिभ्यां झच्” [उणा० ३।१२६] इति बाहुलकात् झच्-कर्मणि “झोऽन्तः” [अष्टा० ७।१।३] (अजरम्) संसारे गतिशीलं प्रसरणस्वभावं (आहुतम्) अभिहुतं प्रेरितं (जुष्टम्) प्रीतं (तस्य भर्मणे) तस्य भरणाय (भुवनाय) भावनाय (धर्मणे) धारणाय च (स्वधया) अन्नेन “स्वधा-अन्ननाम” [निघ० २।७] (कं पप्रथन्त) सुखकरमग्निं प्रथयन्ति विद्वांसः, इति निरुक्तानुसारी खल्वर्थः ॥१॥